December 5, 2022

आदौ अपनिन्दा-पश्चात् मतिभ्रष्टाः किं न्यायपालिका अवसुप्ता?

1 min read

भारते न्यायधीशस्य कर्मणः च अन्यैः न्यायाधीशैः कटाक्षं क्रियते। राष्ट्रीयक्रीडकाणां चयनप्रक्रियायां च भ्रष्टाचारस्य गन्धः प्रसरति। राजनीतौ विधायकानां, सांसदानां, मन्त्रीणां प्रत्यक्षं दलविरोधिकर्मणा, दलं प्रति विशवासघातः अत्रैव सर्वाधिकम्

धन्यं भारतं धन्या च अस्माकं न्यायपालिका। भारते अपराधस्य अपराधीनां संख्या सततं वर्धते। यः कः अपि कुत्रापि कस्यापि उपरि मिथ्यादोषरोपणे समर्थाः। सांवधानिकनियमेषु संशोधनस्य आवश्यकता वर्धते अन्यथा अभिव्यक्तेः अधिकारः इति अपभ्रष्टनियमस्य सततं हननं दुरुपयोगः च भवति। भारते राजनेतारः, विशिष्टाः महानुभावाः, शिक्षामन्त्रिणः, वैज्ञानिकाः च अनेन न्यायेन भ्रष्टाः इति पूर्वमपि प्रमाणयुताः, विविधेषु न्यायालयेषु प्रसंगोपरि श्रवणप्रक्रिया लम्बिताः।
विशिष्टः वैज्ञानिकः केरलप्रान्तीयः वृद्धावस्थायां न्यायप्राप्तः। परराष्ट्रं प्रति गोपनीयं संवेदनशीलं तथ्यं प्रदाय सः देशद्रोही इति मिथ्यापप्रचारः प्रचलितः। संप्रति सः न्यायपालिकायाः कदर्थप्रक्रियया विलम्बेन दोषमुक्तः बभूव। अर्णब गोस्वामी, भवतु अथवा प्रधानमन्त्री, क्रिकेटक्रीडकः भवतु अथवा प्राक्तनः रक्षामन्त्री, सर्वेषामुपरि केनापि उपायेन अपवादस्य चित्रणं भारते साहजिकं मन्यते। मिथ्यापवादात् अात्माद्धाराय धनबलेन सर्वं साध्यमिति मत्वा धनिकाः, क्षमतासीनाः अपवादेभ्यः मुक्ताः भवन्ति परं सामान्याः नागरिकाः तु त्रस्ताः।
भारते न्यायधीशस्य कर्मणः च अन्यैः न्यायाधीशैः कटाक्षं क्रियते। राष्ट्रीयक्रीडकाणां चयनप्रक्रियायां च भ्रष्टाचारस्य गन्धः प्रसरति। राजनीतौ विधायकानां, सांसदानां, मन्त्रीणां प्रत्यक्षं दलविरोधिकर्मणा, दलं प्रति विशवासघातः अत्रैव सर्वाधिकम्। निर्वाचनप्रचार-
समये नेतृणां सामूहिकं परत्यागं, शत्रुदलस्य शरणे गमनं, कोटिशः रुप्यकाणां प्रलुब्धप्रवृत्तित्वात् दलमतं परिवर्तनं नियमितं पारम्परिकं मन्यते। एतत् सर्व भारते संभवम्। धन्यं मम भारतम्।
दृष्टान्तमिदं यत् प्रारम्भात् विवादिते महाराष्ट्रसाम्मुख्ये शासने सामाजिकन्यायमन्त्री धनंजय मुंडे यद्यपि बलात्कारापवादे भर्त्सितः आसीत् तत्र तस्य मन्त्रीपदमपि शंकास्पदं बभूव। गायिका रेणुशर्मा मुण्डे महाभागस्य चारित्रिकं हननं कृत्वा न्यायालयस्य सहायतां प्रार्थितवती। मुम्बईमहानगरे ओशिवरा पुलिसस्थानके रेणु शर्मा लिखितनिवेदनं प्रदाय मन्त्रिणः उपरि भीषणापवादं प्रयुक्तवती। अधुना सैव महिला गायिका धनंजयस्य विरुद्धाचरणं न करोति। सम्पूर्णात्मविश्वासेन गणसंचारपटले संधोधितं पत्रं प्रसार्य बलात्कारापवादस्य भित्तिहीनतां प्रमाणयति। सामाजिकः न्यायमंत्री च पूर्वमेव बलात्कारप्रकरणात् मुक्तः इति आत्मनं निर्दोषस्य प्रमाणम् उपस्थापयति स्म।
चर्चायाः विषयः अयं यत् मान्यवरः मन्त्रिणः सार्वत्रिकं चरित्रहननं बभूव। समाजे, राज्ये, स्वपरिवारे च मुण्डेमहोदयस्य घोरापमानं संजातः। अधुना निर्दोषः इति प्रमाणेन सह गायिकायाः अवस्था का स्यात्? किं गायिका केनापि प्रेरिता? अथवा अर्थबलेन सा स्वमतपरिवर्तनं कृतवती इति अन्वेषणस्य विषयाः स्युः। अन्यथा भविष्यति यः कः अपि राष्ट्रस्योपरि कलंकिताध्यायान् वर्णयितुं, प्रचारयितुम् अधिकृतः भवेत्।
कस्यापि मन्त्रिणः उपरि पूर्वशत्रुतामाधृत्य चारित्रिकं हननं स्यात्। अतः धनजंजयस्य विववादप्रकरणे संप्रति रेणुशर्मणः उपरि न्यायपालिका, पुलिस प्रशासनं, संविधानं च कठोरनिर्णयं कुर्य्युः। मिथ्यापप्रचारवत् समस्या कोरोना-कर्कट-एड्सवत् मरणात्मकी, अस्याः समस्यायाः निराकरणाय गायिकावत् भ्रष्टनागरिकेभ्यः शिक्षायाः आवश्यकता अनुभूयते।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!