February 6, 2023

आवासिककन्याशालायां छात्राभिभावकाः असन्तुष्टाः

1 min read

(विश्वस्य वृत्तान्तः – सूरतम्)
धरमपुरम्। दक्षिणगुजरातस्य वलसाडजिलायाः धरमपुरस्थे कन्यासाक्षरतावासिक-शालापरिसरे प्राचार्येण सार्धम् 600 छात्राणां, तासामभिभावकानां प्रबलः विरोधः गणसंचारमाध्यमेन प्रसारितः।
शालायां मध्याहनभोजनं नोत्तम् न च रुचिकरमिति गतवर्षात् कन्यकाः सूचयन्ति परं शालाप्राचार्यः संचालकाः, शिक्षकाः च कर्णपातं न कुर्वन्ति। गतदिवसे अभिभावकानां सहयोगेन एताः कन्याः प्रबलं विरोधं कुर्वत्यः पुलिसस्थानकात् सहायतां प्रार्थितवत्यः।
शालायां सूपकारैः काश्चन कन्याः प्रपीडिताः भवन्ति, तासाम् कृते शारीरिक-मानसिकयंत्रणा
च दीयते इति। धरमपुरस्य पुलिसप्रवक्ता उक्तवान् यत् कदाचित् राजनैतिकनेतृणां पृष्ठपोषकता वर्तते येन शालायाः आचार्यः कन्यानां समस्याः न निवारयति।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!