गुजरातराज्ये नवीना नगरपालिका सम्मिलिता

(विश्वस्य वृत्तान्तः – सूरतम्)
कर्णावती। गुजरातस्य अन्ताराष्ट्रियसीमाप्रान्ते कच्छजिलायाः नखत्राणा ग्रामपंचायतः संप्रति नवीनतमा नगरपालिका रुपेण परिगण्यते। नखत्राणा समूहे त्रयः ग्रामाः सन्ति। नाना नखत्राणा, मोटा नखत्राणा, बेरु इति। मुख्यमन्त्री पटेलः गतकैबिनेटसत्रे एतत् निर्णयं कृत्वा उक्तवान् यत् दूरान्तग्रामीणानां कृते प्रथमवारं राज्यसर्वकारस्य विविधाः योजनाः प्रणीतव्याः। नागरिकाणां कृते पेयजलम्, ऊर्जा, उन्नतस्वास्थ्यसेवा च दास्यन्ते।