सदने श्रेष्ठविधायकरुपेण शैलेष परमारः मनोनीतः

(विश्वस्य वृत्तान्तः – सूरतम्)
गान्धीनगरम्। वार्षिकसत्कारसमारोहकाले गुजरातविधानसभा विधायकेषु उत्साहः परिलक्षितः। 2021 तथा 2022 तमयोः वर्षयोः कृते उत्कृष्टविधायकरुपेण कांग्रेसदलात् शैलेष परमारः एवं शासकदलात् जीतूभाई मनोनीतौ।
अध्यक्षा आचार्यः गतदिवसे विशेषसत्रे एतयोः नामनी प्रकाशितवती। स्पीकरमहोदया पुरस्कारवितरणं करोति स्म।
भारतीयसंसदि सर्वोत्तमसदस्याय प्रतिवर्षं पुरस्कारः दीयते। अधिवेशनकाले, शून्यकाले, प्रश्नोत्तरीसत्रेषु शान्तिस्थापनं, अनुशासनरक्षणं च विचारिते। अस्य पुरस्कारस्य प्रायोजनं सर्वादौ वडोदरायाः विधायकः प्रारब्धवान् इति मन्यते।