February 6, 2023

भारतम् अस्य दशकस्य अन्तिमं यावत्
विश्वस्य तृतीया बृहती अर्थव्यवस्था भविष्यति

1 min read

नवदिल्ली। उपराष्ट्रपतिः जगदीपधनखडः विश्वासं प्रकटितवान् यत् भारतम् अस्य दशकस्य अन्तिमं यावत् विश्वस्य तृतीया बृहती अर्थव्यवस्था भविष्यति।
देशस्य प्रगतौ कृषकाणां श्रमिकाणां वञ्चितानां अथ च समाजस्य सर्वेषां वर्गाणां योगदानं रेखांकितं कुर्वन् धनखडः प्रोक्तवान् यत् सर्वकारस्य निशुल्क एलपीजी वितरण योजना कोविड महामार्याः अवधौ नवति-कोटिजनेभ्यः निशुल्क खाद्यवितरणयोजना अन्याः च विविधाः कल्याण प्रदयोजनाः गांधीवादस्य विचारधारया प्रभाविताः सन्ति ।
सः राष्ट्रपितुः महात्मा गांधिना स्थापितस्य हरिजन सेवक संघस्य नवतितमे स्थापना दिवसस्यावसरे अद्य नवदिल्ल्यां सद्भावना सम्मेलनं सम्बोधयन् इदं वक्तव्यं दत्तवान् । उपराष्ट्रपतिः सबका साथ, सबका विकास, सबका विश्वास और सबका प्रयास इत्येतत् मंत्रं गांधीवादस्य विचारधारां प्रतिपादयन् प्रोक्तवान् यत् इयं राजनैतिकविचारधारा न अस्ति ।
सः प्रोक्तवान् यत् गांधिनः विचाराः सम्पूर्णविश्वाय सन्ति अपि च संघर्ष – खाद्यान्नसङ्कट जलवायुपरिवर्तनसदृशानां वर्तमान सङ्कष्टानां समाधानं गांधिनः विचारेषु निबद्धम् अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!