February 6, 2023

अद्य राष्ट्रपतिभवने विंशति – विंशति – एकविंशति-तमाब्दाय राष्ट्रीय सेवा योजना पुरस्कारं राष्ट्रपति द्रौपद्रीमुर्मु वर्या प्रदत्तवती

1 min read

नवदिल्ली। राष्ट्रपति द्रौपद्रीमुर्मु-वर्या अद्य राष्ट्रपति-भवने विंशति- विंशति – एकविंशति-तमाब्दाय राष्ट्रीय-सेवा योजना- पुरस्कारं प्रदत्तवती । अस्मिन् क्रमे द्विचत्वारिंशत्-पुरस्काराणि प्रदत्तानि । द्वाभ्यां विश्व-विद्यालयाभ्यां, दश राष्ट्रीय सेवा योजना- एकांशेभ्यः तेषाम् अधिकारिभ्यः सहैव त्रिंशत् स्वयं-सेवकेभ्यः च अयं पुरस्कारः प्रदत्तः।
केन्द्रीय मन्त्री अनुराग-ठाकुरः, केन्द्रीयः खेलराज्यमंत्री निसिथप्रमाणिकः युवाप्रकरण-सचिवः संजयकुमारः अथ च अन्ये गणमान्याः अस्मिन् अवसरे उपस्थिताः आसन् । अवधेयं यत् खेल- मन्त्रालय – विभागः प्रतिवर्षं राष्ट्रिय सेवा योजना- पुरस्कारं प्रयच्छति ।
अयं पुरस्कारः देशे स्वैच्छिक सामुदायिक सेवायां राष्ट्रिय सेवायां विशिष्टयोगदानं प्रदातृभ्यः विश्वविद्यालयेभ्यः, महाविद्यालयेभ्यः, उच्चतर माध्यमिक विद्यालयेभ्यः, एन.एस.एस एकांशाय कार्यक्रमाधिकारिभियः एनएसएस कार्यकर्तृभ्यः च प्रदीयते । राष्ट्रीय सेवायोजनायाः प्रारम्भः स्वैच्छिक सामुदायिक सेवामाध्यमेन यूनां व्यक्तित्व विकासाय चरित्र-निर्माणाय च प्राथमिकोद्देश्येन सह एकोनसप्तत्यधिक नवदश शततमवर्षे सञ्जातः ।
द्रौपदीमुर्मू राष्ट्रीय सेवा योजना- पुरस्कारः महात्मा गांधिनः आदर्शः प्रभावितायाः राष्ट्रीय सेवा योजनायाः आदर्शवाक्यम् अस्ति । – ‘स्वयं से पहले आप’ इति।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!