December 5, 2022

पास-समन्वयकः रिक्साचालकेन आहताः

1 min read

(विश्वस्य वृत्तान्तः – सूरतम्)
सूरतम्। पाटीदार-आरक्षणान्दोलनस्य राज्यसमन्वयकः अल्पेश कथीरीया गतदिने अज्ञात-रिक्साचालकेन ताडितः। रुग्णालयं प्रति गन्तुंकामः कथीरीया मार्गे रिक्सायानस्य प्रतीक्षां कृतवान् परम् सहसैव तस्योपरि चालकस्य यष्टिकाप्रहारेण सः रक्ताक्तः बभूव। प्रत्यक्षद्रष्टारः त्वरितमेव घटनास्ठथले सहायतां कृतवन्तः। प्रबलजनसम्मदात् ओटोरिक्षाचालकः कुत्रापि अनन्यगोचरः बभूव। सूचनां प्राप्य कापोद्रा पुलिसशाखायाः सेवकाः आगत्य अनुसंधानं चालितवन्तः। अपराधी रिक्षाचालकः केनापि राजनेत्रा नियोजितः वा इति प्रचारमपि भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!