September 24, 2022

प्रौद्योगिकीछात्राणां कृते पूर्वमन्त्रिणः उद्बोधनम्

(विश्वस्य वृत्तान्तः – सूरतम्)
सूरतम्। सूरतनगरे एसवीएनआईटीपरिसरे स्नातकानुस्नातक विद्यार्थिभिः सह परिसंवादावसरे भाजपानेता प्रकाश जावडेकरः उक्तवान् यत् भारतीयोत्पादस्य निर्माणं, वितरणम्, उपयोगः सर्वप्रथमकर्तव्यम्। छात्रेषु राष्ट्रप्रेम स्यात्। भारतीयाः सन्तः छात्राः भारतस्य विकासं प्रति प्रयत्नशीलाः भविष्यन्ति। डिजिटल भारतम्, मेक इन इन्डिया, टीकाकरणं, कोरोना उन्मूलनादि गुरुत्वपूर्णप्रसंगेषु विद्यार्थिभ्यः सकारात्मकं प्रतिसादं प्राप्तवान्। पूर्वतनः संचारमन्त्री प्रकाश जावडेकरः सूरतनगरे विशेषपुस्तकस्योन्मोचनाय आतिथ्यं स्वीकृतवान्। 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!