September 24, 2022

सेवासदने उत्कोचग्रहणकाले लिपिकः बन्धनं प्राप्तः

(विश्वस्य वृत्तान्तः – सूरतम्)
सूरतम्। सूरतमहानगरे अठवामार्गे जिल्लासेवासदनस्य जनैकः कनिष्ठः कर्मचारी उत्कोचस्वीकरणकाल े अपराधनिवारकदलेन स्थलोपरि अधिगृहीतः। सेवासदनेौ कुटुम्बपेंशनविभागात् जनैकायाः विधवायाः सार्धद्विलक्षं रुप्यकाणां नियमनाय कनिष्ठलिपिकः विवेक केवडिया 60 सहस्त्रं रुप्यकाणि उत्कोचमात्ररुपेण याचते स्म। पीडितामहिला अपराधनियंत्रणशाखायां लिखितावेदनं प्रदत्तवती। विवेक केवडिया संप्रति कारागृहं प्रेषितः विद्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!