September 24, 2022

वस्त्रोद्योगे जीविकायै अवसरार्थे संगोष्ठी

1 min read

(विश्वस्य वृत्तान्तः – सूरतम्)
सूरतम्। सूरतमहानगरे अमरोलीग्रामे जीवनज्योत शैक्षणिकसंस्थायाः नेतृत्वे परिचालिते महाविद्यालये छात्राणां कृते उज्जवलभविष्यं जीविकानिर्धारणं सुयोगः संभावना च इति विषयमाधारीकृत्य एकदिवसीय संगोष्ठी, मार्गदर्शनाभियानं चलितमासीत्। टेक्स्टाइलशिल्पस्थाने जनाः कथं स्वावलम्बिनः भविष्यनीति विषयोपरि वक्तारः मार्गदर्शनं कृतवन्तः।
भारतस्य स्वाधीनतायाः 75 तमे जयन्तीकाले अमरोलीस्थे महाविद्यालये नियमितसमये विविधाः कार्यक्रमाः प्रचलन्ति। अजमेरा शिल्पानुष्ठानस्य अजयभाई प्रमुखः उद्बोधकः आसीत्। स्नातककक्षायाः शताधिकाः कुशलिनः विद्यार्थिनः अशेषोपायेन आत्मनिर्भरशीलतायाः विशेषकौशलं प्राप्तवन्तः।
अधिकृतः कार्यपालकः प्राचार्यः आधारपुरुषस्य अभिनन्दनं कृतवान्। डॉ. चिराग सिद्धपुरिया अतिथीनां परिचयप्रकाशं करोति स्म। शिवानी राजपूत, जिग्ना राणा, भूमि मिस्त्री, भूमिबेन जेठवा तथा 400 छात्राः सम्मेलने उपस्थिताः आसन्। डॉ. सोनलबेन काडलोतरः कार्यक्रमस्य संचालनं कृतवती। प्रो.मयंकभाई सोढा अन्ते च सादरं धन्यवादार्पणं करोति स्म।
सूरतमहानगरवत् देशस्य अन्येषु राज्येषु, विभिन्नेषु महानगरेषु वस्त्रोद्योगस्य नव-नव प्रणयनकुशलतायां छात्राः कथं प्रमाणिकताया सफलाः भविष्यन्ति। स्वजीवने आजीविकायै आर्थिकविकासाय च स्वालम्बिनः स्युः।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!