September 24, 2022

गुजरातनगर विश्वस्य शाकाहारीप्रान्तम्

1 min read

(विश्वस्य वृत्तान्तः – सूरतम्)
पालिताना। समग्रविश्वे प्रथमं शाकाहारीस्थलरुपेण यद्यपि कुरुक्षेत्रं परिचितं तथापि औपचारिकरुपेण गुजरातस्य पालिताना सर्वथा अग्रे विद्यते। अत्र नागरिकाणां कृते मांसभक्षणं निषिद्धम्। पालितानानगरे प्रायतः सहस्त्रं जैनमन्दिराणि सन्ति। प्रत्यहः जैनमूमूक्षुवर्गाणां समागमनं दृश्यते। विश्वे जैनपरम्परायां मद्यमांसमत्स्यादि भक्षणं सर्वथा गर्हितं कथ्यते। शुद्धं शाकाहारीभोजनं प्रति अत्र जागरुकता वर्धते।
भारतीयानां कृते जीवहत्या, गौवंशसुरक्षा, सर्वजीवदयाभावना सर्वोपरि च। 2014 तमवर्षे अस्मिन् क्षेत्रे प्रायतः शताधिकाः जैनमुनयः मांसनिरोधि-आमरणमनशनं कृत्वा सफलतां प्राप्तवन्तः।
भावनगरजनपदस्य शत्रुंजयपर्वतसमीपे जैनधर्मस्य मूलपीठत्वेन अत्र नगरजनानां सहभागिता सकारात्मकी मन्यते। पर्वतश्रृंखलायां कुमारपालपीठम्, समप्रीती राज, विपुल शाहमन्दिरम्, भगवान् आदिनाथ धामः, मोक्षकेन्द्रादीनां निर्माणं संजातम्। संप्रति राज्य सर्वकारेण मांसविरोधि-योजना प्रणीता।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!