September 24, 2022

बान्द्रा-कुर्लापरिसरे एकनाथस्य समर्थकैः शोभायात्रा करणीया

(विश्वस्य वृत्तान्तः – सूरतम्)
मुम्बई। आगामिनि दशहरापर्वणि शिवसेनापक्षतः पारंपरिकः वार्षिकः शोभायात्रासमारोहः शिवाजीवाटिकायां स्यात्। मुम्बईमनपा यद्यपि अन्तिमनिर्णयं न दत्तवती परं एकनाथ शिन्दे समर्थकानां कृते बीकेसी प्रांगणं प्रदत्तम्। पूर्वागतसंगठनाय प्रथमावसरन्यायेन असन्तुष्टाः शिवसैनिकाः अधुनापि कार्यक्रमस्यायोजनाय प्रस्तुताः।
उद्धवठाकरे नेतृत्वे शिवतीर्थप्रांगणे भव्यसमारोहस्य समायोजनं प्रति वरिष्ठः सेनासांसदः अरविन्द सावन्तः उक्तवान्। न्यायालये सेनाविवादोपरि अक्टूबरमासान्ते निर्देशावली प्रकाशनीया तत्र दशहरावत् हिन्दुपर्वणि बालासाहेबस्य अपूर्णस्वप्न सार्थकं करणीयमिति सावन्तः उद्घोषणां करोति स्म।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!