August 13, 2022

उत्तरप्रदेशे संस्कृतेन प्रशासनिकसेवायाः सिद्धतां कुर्वतां छात्राणां सङ्ख्या सार्धद्विगुणिता वर्धिता

1 min read

(विश्वस्य वृत्तान्तः – सूरतम्)
लखनऊ। उत्तरप्रदेश संस्कृत संस्थानेन संपृक्ताः देशस्य विदेशस्य च छात्राः केवलं संस्कृतं वक्तुं जानन्ति अपि च संस्कृतेन प्रशासनिकसेवायाः सिद्धतां कुर्वतां छात्राणां सङ्ख्या अपि वर्धिता अस्ति । संस्कृतं प्रति उत्साहस्य अनुमानम् एतया वार्तया अभिज्ञातुं शक्यते यत् अस्मिन् वर्षे संस्कृतेन प्रशासनिकसेवायाः निःशुल्कसिद्धतायै आयोजिता प्रवेशपरीक्षा पञ्चशताधिकाभिः छात्राभिः लिखिता। संस्थानानुसारं गतवर्षस्य अपेक्षया छात्राणां सङ्ख्या सार्धद्विगुणिता वर्धिता ।
संस्कृतं समुन्नेतुम् अभियानमिदं कीर्तिमानं प्राप्नोति । उत्तरप्रदेशसंस्कृतसंस्थानस्य ऑनलाइन संस्कृतकक्षासु छात्राणां सङ्ख्या षष्टिसहस्र पर्यन्तं प्राप्ता । तत्रैव, संस्कृेतविषयम् स्वीकृत्य भारतीय प्रशासनिकसेवाधिकारिपदम् अवाप्तुं सज्जाकुर्वतां छात्राणां सङ्ख्यायाम् अत्यधिकं वर्धनम् अभवत् । उत्तरप्रदेश संस्कृत-संस्थानपक्षतः संस्कृतविषये प्रशासनिक सेवापरीक्षायाः सिद्धता कार्यते । एतन्निमित्तं संस्थान-पक्षतः नि:शुल्कम् अनुशिक्षण-केन्द्रस्य सञ्चालनं क्रियते ।
छात्राणां चयनं द्वयोः चरणयोः आयोज्यते । प्रथमचरणे प्रवेशपरीक्षायाः आयोजनं भवति । पुनः योग्यताधारेण छात्राः साक्षात्काराय आहूयन्ते । एतेषु षष्टिच्छात्राणां चयनं क्रियते यद्यपि उत्तरप्रदेश सङ्घलोकसेवा योगस्य प्रारम्भिकपरीक्षा उत्तीर्णवतां दश–पञ्चदशच्छात्राणां चयनं पृथकतया क्रियते। संस्थानपक्षतः आहत्य पञ्चसप्ततिच्छात्राणां चयनं क्रियते, यान् संस्कृतस्य विद्वांसः प्रशासनिकसेवायै सिद्धतां कारयन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!