August 13, 2022

क्रैकडॉउन वेब-श्रृंखला 2 शीघ्रं प्रसारितं भविष्यति

1 min read

(विश्वस्य वृत्तान्त: – सूरतम्)
मुम्बई। बॉलीवुडस्य चर्चिताभिनेता साकिब सलीमस्य वूट सिलेक्ट इत्यस्य वेब-श्रृंखला क्रैकडॉउन इत्यस्य एकवर्षं पूर्णं जातम् । अत: साकिब सलीम: इति विवरणं इंस्टाग्राम मध्ये दत्वा तेन सह द्वितीय-श्रृंखलाया: अपि घोषणां कृतवान्। अर्थात् क्रैकडॉउन वेब-श्रृंखला 2 अपि शीघ्रं प्रसारितं भविष्यति । क्रैकडॉउन श्रृंखलाया: निर्देशनम् अपूर्व लाखिया कृतवान्।
अस्मिन् श्रृंखलायां साकिब सलीम: मुख्य-भूमिकायाम् आसीत् तेन सह मोहम्मद इकबाल खान:, अंकुर: भाटिया, श्रिया पीलोगांवकर:, राजेश थाइलोंग: अपि आसन् । अन्तिमवारम् साकिब: कॉमेडी कपल इत्यस्मिन् प्रदर्शने दर्शनं दतवान् । अधुना क्रैकडॉउन 2 श्रृंखलायां तथा काकुड़ा चलचित्रे दर्शनं दास्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!