September 24, 2022

गुजरात राज्यस्य 17तमः मुख्यमन्त्री पाटीदारवर्गस्य कृते गौरवशाली बभूव

(विश्वस्य वृत्तान्तः – सूरतम्)
गान्धीनगरम्। राजनीतौ अतिरंजित
प्रक्रियायां गुजरातस्य भाजपादलस्य नूतनमुख्यमन्त्रीस्थाने पाटीदारनेता भूपेन्द्र पटेलः शपथग्रहणं कृतवान्। अहमदाबादस्य घाटलोडियाविधायकः 17 तमः मुख्यमन्त्री अभूत्। राजनैतिकहीनचक्रान्तबलेन विजयभाई पदत्यागं च कृतवान्।
शपथपाठोत्सवे गृहमन्त्री अमित शाह, योगी आदित्यनाथः, शिवराजसिंह चौहाणः, बसावराज बोमोई, प्रमोद सावन्तः, हिमान्त बिश्व सरमादयः उपस्थिताः आसन्।
स्वगृहे प्रातः पूजापाठं समाप्य नीतीन पटेलस्य कृपाप्रार्थी सन् भूपेन्द्र पटेलः राजभवने गतवान्। राज्ये परिवर्त्तितसर्वकारस्य कृते के वा उपमुख्यमन्त्रिणः भविष्यन्तीति निर्णयः स्वयं गृहमन्त्री करिष्यति। अडालजप्रान्ते दादा भगवानमन्दिरे गत्वा मुख्यमन्त्री आशीर्वादं लब्धवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!